|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.227. अध्यायः 227
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
ईश्वरेणोमांप्रति प्राणिनामुद्भिदादिभेदेन चातुर्विध्यादिनिरूपणम्॥ 1 ॥ तथा शास्त्रजन्यज्ञानस्य श्रेयः साधनत्वाद्युक्तिः॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्देवदेवेश कर्मणैव शुभाशुभम्।
यथायोगं फलं जन्तुः प्राप्नोतीति विनिश्चयः॥ 13-227-1(90295)
परेषां विप्रियं कुर्वन्यथा सम्प्राप्नुयाच्छुभम्।
यद्येतदस्मिंश्चेद्देहे तन्मे शंसितुमर्हसि॥ 13-227-2(90296)
महेश्वर उवाच। 13-227-3x(7597)
तदप्यस्ति महाभागे अभिसन्धिबलान्नृणम्।
हितार्थं दुःखमन्येषां कृत्वा सुखमवाप्नुयात्॥ 13-227-3(90297)
दण्डयन्भर्त्सयन्राजा जनान्पुण्यमवाप्नुयात्।
गुरुः सन्तर्जयञ्शिष्यान्भर्ता भृत्यजनान्स्वकान्।
उन्मार्गप्रतिपन्नांश्च शास्ता धर्मफलं लभेत्॥ 13-227-4(90298)
चिकित्सकश्च दुःखानि जनयन्हितमाप्नुयात्।
यज्ञार्थं पशुहिंसां च कुर्वन्नपि न लिप्यते।
एवमन्ये सुमनसो हिंसकाः स्वर्गमाप्नुयुः॥ 13-227-5(90299)
एकस्मिन्निहते भद्रे बहवः सुखमाप्नुयुः।
तस्मिन्हते भवेद्धर्मः कुत एव तु पातकम्॥ 13-227-6(90300)
अहिंसतेति हत्वा तु शुद्धे कर्मणि गौरवात्।
अभिसन्धेरजिह्मत्वाच्छुद्धे धर्मस्य गौरवात्।
एतत्कृत्वा तु पापेभ्यो न दोषं प्राप्नुयुः क्वचित्॥ 13-227-7(90301)
उमोवाच। 13-227-8x(7598)
चतुर्विधानां जन्तूनां कथं ज्ञानमिह स्मृतम्।
कृत्रिमं तत्स्वभावं वा तन्मे शंसितुमर्हसि॥ 13-227-8(90302)
महेश्वर उवाच। 13-227-9x(7599)
स्थावरं जङ्गमं चैव जगद्द्विविधमुच्यते।
चतस्रो योनयस्तत्र प्रजानां क्रमशो यथा॥ 13-227-9(90303)
तेषामुद्भिदजा वृक्षा लतावल्ल्यश्च वीरुधः।
दंशयूकादयश्चान्ये स्वेदजाः क्रिमिजातयः॥ 13-227-10(90304)
पक्षिणश्छिद्कर्णाश्च प्राणिनस्त्वण्डजा मताः।
मृगव्यालमनुष्यांश्च विद्धि तेषां जरायुजान्॥ 13-227-11(90305)
एवं चतुर्विधां जातिमात्मा संसृत्य तिष्ठति॥ 13-227-12(90306)
स्पर्शेनैकेन्द्रियेणात्मा तिष्ठत्युद्भिदजेषु वै।
शरीरस्पर्शरूपाभ्यां स्वेदजेष्वपि तिष्ठति॥ 13-227-13(90307)
पञ्चभिश्चेन्द्रियद्वारैर्जीवन्त्यण्डजरायुजाः॥ 13-227-14(90308)
तथा भूम्यम्बुसंयोगाद्भवन्त्युद्भिदजाः प्रिये।
शीकतोष्णयोस्तु संयोगाज्जायन्ते स्वेदजाः प्रिये।
अण्डजाश्चापि जायन्ते संयोगात्क्लेदबीजयोः॥ 13-227-15(90309)
शुक्लशोणितसंयोगात्सम्भवन्ति जरायुजाः।
जरायुजानां सर्वेषां मानुषं पदमुत्तमम्॥ 13-227-16(90310)
अतःपरं तमोत्पत्तिं शृणु देवि समाहिता।
द्विविधं हि तमो लोके शार्वरं देहजं तथा॥ 13-227-17(90311)
जोतिर्भिश्च तमो लोके नाशं गच्छति शार्वरम्।
देहजं तु तमो लोके तैः समस्तैर्न शाम्यते॥ 13-227-18(90312)
तमसस्तस्य नाशार्थं नोपायमधिजग्मिवान्।
तपश्चचार वलिपुलं लोककर्ता पितामहः॥ 13-227-19(90313)
चरतस्तु समुद्भूता वेदाः साङ्गाः सहोत्तराः।
ताँल्लब्ध्वा मुमुदे ब्रह्मा लोकानां हितकाम्यया।
देहजं तु तमो घोरमभूत्तैरेव नाशितम्॥ 13-227-20(90314)
कार्याकार्यमिदं चेति वाच्यावाच्यमिदं त्विति।
यदि चेन्न भवेल्लोके श्रुतं चारित्रदैशिकम्।
पसुभिर्निर्विशेषं तु चेष्टन्ते मानुषा अपि॥ 13-227-21(90315)
यज्ञादीनां समारम्भः श्रुतेनैव विधीयते।
यज्ञस्य फलयोगेन देवलोकः समृद्ध्यते॥ 13-227-22(90316)
प्रीतियुक्ताः पुनर्देवा मानुषाणां भवन्त्युत।
एवं नित्यं प्रवर्धेते रोदसी च परस्परम्॥ 13-227-23(90317)
लोकसन्धारणं तस्माच्छ्रुतमित्यवधारय।
ज्ञानाद्विशिष्टं जन्तूनां नास्ति लोकत्रयेऽपि च॥ 13-227-24(90318)
सहजं तत्प्रधानं स्यादपरं कृत्रिमं स्मृतम्।
उभयं यत्र सम्पन्नं भवेत्तत्र तु शोभनम्॥ 13-227-25(90319)
सम्प्रगृह्य श्रुतं सर्वं कृतकृत्यो भवत्युत।
उपर्युपरि मर्त्यानां देववत्सम्प्रकाशते॥ 13-227-26(90320)
कामं क्रोधं भयं दर्पमज्ञानं चैव बुद्धिजम्।
तच्छ्रुतं नुदति क्षिप्रं यथा वायुर्बलाहकान्॥ 13-227-27(90321)
अल्पमात्रं कृतो धर्मो भवेज्झानवतां महान्।
महानपि कृतो धर्मो ह्यज्ञानान्निष्फलो भवेत्॥ 13-227-28(90322)
परावरझो भूतानां ज्ञानवांस्तत्वविद्भवेत्।
एवं श्रुतफलं सर्वं कथितं ते शुभक्षणे॥ 13-227-29(90323)
उमोवाच। 13-227-30x(7600)
भगवन्मानुषाः केचिज्जातिस्मरणसंयुताः।
किमर्थमभिजायन्ते जानन्तः पौर्वदैहिकम्।
एतन्मे तत्वतो देव मानुषेषु वदस्व भो॥ 13-227-30(90324)
महेश्वर उवाच। 13-227-31x(7601)
तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता॥ 13-227-31(90325)
ये मृताः सहसा मर्त्या जायन्ते सहसा पुनः।
तेषां पौराणिको बोधः कञ्चित्कालं हि तिष्ठति॥ 13-227-32(90326)
तस्माज्जातिस्मरा लोके जायन्ते बोधसंयुताः।
तेषां विवर्धतां संज्ञा स्वप्नवत्सा प्रणश्यति।
परलोकस्य चास्तित्वे मूढानां कारणं च तत्॥ 13-227-33(90327)
उमोवाच। 13-227-34x(7602)
भगवन्मानुषाः केचिन्मृता भूत्वाऽपि सम्प्रति।
निवर्तमाना दृश्यन्ते देहेष्वेव पुनर्नराः॥ 13-227-34(90328)
महेश्वर उवाच। 13-227-35x(7603)
तदहं ते प्रवक्ष्यामि कारणं शृणु शोभने॥ 13-227-35(90329)
प्राणैर्वियुज्यमानानां बहुत्वात्प्राणिनां वधे।
तथैव नामसामान्याद्यमदूता नृणां प्रति॥ 13-227-36(90330)
वहन्ति ते क्वचिन्मोहादन्यं मर्त्यं तु यामिकाः।
निर्विकारं हि तत्सर्वं यमो वेद कृताकृतम्॥ 13-227-37(90331)
तस्मात्संयमनीं प्राप्य यमेनैकेन मोक्षिताः।
पुनरेव निवर्तन्ते शेषं भोक्तुं स्वकर्मणः।
स्वकर्मण्यसमाप्ते तु निवर्तन्ते हि मानवाः॥ 13-227-38(90332)
उमोवाच। 13-227-39x(7604)
भगवन्सुप्तमात्रेण प्राणिनां स्वप्नदर्शनम्।
किं तत्स्वभावमन्यद्वा तन्मे शंसितुमर्हसि॥ 13-227-39(90333)
महेश्वर उवाच। 13-227-40x(7605)
सुप्तानां तु मनश्चेष्टा स्वप्न इत्यभिधीयते।
अनागतमतिक्रान्तं पश्यते सञ्चरन्मनः॥ 13-227-40(90334)
निमित्तं च भवेत्तस्मात्प्राणिनां स्वप्नदर्शनम्।
एतत्ते कथितं देवि भूयः श्रोतु किमिच्छसि॥ ॥ 13-227-41(90335)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तविंशत्यधिकद्विशततमोऽध्यायः॥ 227 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|